पादादिजानुपर्यन्तं पृथिवीस्थानमुच्यते ॥ आजानोः पायुपर्यन्तमपां स्थानं प्रकीर्तितम् ॥ आपायोर्हृदयान्तं च वह्निस्थानं प्रकीर्तितम् । आहृदयाद्भ्रुवोर्मध्यं वायुस्थानं प्रकीर्तितम् ॥ आभ्रूमध्यात्तु मूर्धान्तमाकाशस्थानमुच्यते ॥