chapter 1

हृत्पुण्डरीकमध्ये तु भावयेत्परमेश्वरम् । साक्षिणं बुद्धिवृत्तस्य परमप्रेमगोचरम् ॥ ८॥

अहेयमनुपादेयमसामान्यविशेषणम् । ध्रुवं स्तिमितगम्भीरं न तेजो न तमस्ततम् । निर्विकल्पं निराभासं निर्वाणमयसंविदम् ॥ १०॥

chapter 2

देहो देवालयः प्रोक्तः स जीवः केवलः शिवः । त्यजेदज्ञाननिर्माल्यं सोऽहम्भावेन पूजयेत् ॥ १॥

अभेददर्शनं ज्ञानं ध्यानं निर्विषयं मनः। स्नानं मनोमलत्यागः शौचमिन्द्रियनिग्रहः ॥ २॥

ब्रह्मामृतं पिबेद्भैक्षमाचरेद्देहरक्षणे । वसेदेकान्तिको भूत्वा चैकान्ते द्वैतवर्जिते । इत्येवमाचरेद्धीमान्स एवं मुक्तिमाप्नुयात् ॥ ३॥

अहम्ममेति विण्मूत्रलेपगन्धादिमोचनम् । शुद्धशौचमिति प्रोक्तं मृज्जलाभ्यां तु लौकिकम् ॥ ८॥

चित्तशुद्धिकरं शौचं वासनात्रयनाशनम् । ज्ञानवैराग्यमृत्तोयैः क्षालनाच्छौचमुच्यते ॥ ९॥

अहङ्कारसुतं वित्तभ्रातरं मोहमन्दिरम् । आशापत्नी त्यजेद्यावत्तावन्मुक्तो न संशयः ॥ १२॥

हृदाकाशे चिदादित्यः सदा भासति भासति । नास्तमेति न चोदेति कथं सन्ध्यामुपास्महे ॥ १४॥

उत्तमा तत्त्वचिन्तैव मध्यमं शास्त्रचिन्तनम् । अधमा मन्त्रचिन्ता च तीर्थभ्रान्त्यधमाधमा ॥ २१॥

अन्तःपूर्णो बहिःपूर्णः पूर्णकुम्भ इवार्णवे । अन्तःशून्यो बहिःशून्यः शून्यकुम्भ इवाम्बरे ॥२७॥

मा भव ग्राह्यभावात्मा ग्राहकात्मा च मा भव । भावनामखिलं त्यक्त्वा यच्छिष्टं तन्मयो भव ॥ २८॥