लोके विततमात्मानं लोकं चात्मनि पश्यतः| परावरदृशः शान्तिर्ज्ञानमूला न नश्यति||२०||
पश्यतः सर्वभावान् हि सर्वावस्थासु सर्वदा| ब्रह्मभूतस्य संयोगो न शुद्धस्योपपद्यते||२१||
विपापं विरजः शान्तं परमक्षरमव्ययम्| अमृतं ब्रह्म निर्वाणं पर्यायैः शान्तिरुच्यते||२३||

Muni's Play