इन्द्रियेणेन्द्रियार्थो हि समनस्केन गृह्यते| कल्प्यते मनसा तूर्ध्वं गुणतो दोषतोऽथवा||२२||
जायते विषये तत्र या बुद्धिर्निश्चयात्मिका| व्यवस्यति तया वक्तुं कर्तुं वा बुद्धिपूर्वकम्||२३||
खरद्रवचलोष्णत्वं भूजलानिलतेजसाम्| आकाशस्याप्रतीघातो दृष्टं लिङ्गं यथाक्रमम्||२९||
करणानि मनो बुद्धिर्बुद्धिकर्मेन्द्रियाणि च| कर्तुः संयोगजं कर्म वेदना बुद्धिरेव च||५६||
नैकः प्रवर्तते कर्तुं भूतात्मा नाश्नुते फलम्| संयोगाद्वर्तते सर्वं तमृते नास्ति किञ्चन||५७||
उपधा हि परो हेतुर्दुःखदुःखाश्रयप्रदः| त्यागः सर्वोपधानां च सर्वदुःखव्यपोहकः||९५||
धीधृतिस्मृतिविभ्रंशः सम्प्राप्तिः कालकर्मणाम्| असात्म्यार्थागमश्चेति ज्ञातव्या दुःखहेतवः||९८||
विषमाभिनिवेशो यो नित्यानित्ये हिताहिते| ज्ञेयः स बुद्धिविभ्रंशः समं बुद्धिर्हि पश्यति||९९||
विषयप्रवणं सत्त्वं धृतिभ्रंशान्न शक्यते| नियन्तुमहितादर्थाद्धृतिर्हि नियमात्मिका||१००||
तत्त्वज्ञाने स्मृतिर्यस्य रजोमोहावृतात्मनः| भ्रश्यते स स्मृतिभ्रंशः स्मर्तव्यं हि स्मृतौ स्थितम्||१०१||
धीधृतिस्मृतिविभ्रष्टः कर्म यत् कुरुतेऽशुभम्| प्रज्ञापराधं तं विद्यात् सर्वदोषप्रकोपणम्||१०२||
कालस्य परिणामेन जरामृत्युनिमित्तजाः| रोगाः स्वाभाविका दृष्टाः स्वभावो निष्प्रतिक्रियः||११५||
निर्दिष्टं दैवशब्देन कर्म यत् पौर्वदेहिकम्| हेतुस्तदपि कालेन रोगाणामुपलभ्यते||११६||
न हि कर्म महत् किञ्चित् फलं यस्य न भुज्यते| क्रियाघ्नाः कर्मजा रोगाः प्रशमं यान्ति तत्क्षयात्||११७||
मिथ्यातिहीनयोगेभ्यो यो व्याधिरुपजायते| शब्दादीनां स विज्ञेयो व्याधिरैन्द्रियको बुधैः||१२८||
स्पर्शनेन्द्रियसंस्पर्शः स्पर्शो मानस एव च| द्विविधः सुखदुःखानां वेदनानां प्रवर्तकः||१३३||
इच्छाद्वेषात्मिका तृष्णा सुखदुःखात् प्रवर्तते| तृष्णा च सुखदुःखानां कारणं पुनरुच्यते||१३४||
उपादत्ते हि सा भावान् वेदनाश्रयसञ्ज्ञकान्| स्पृश्यते नानुपादाने नास्पृष्टो वेत्ति वेदनाः||१३५||
योगे मोक्षे च सर्वासां वेदनानामवर्तनम्| मोक्षे निवृत्तिर्निःशेषा योगो मोक्षप्रवर्तकः||१३७||
आत्मेन्द्रियमनोर्थानां सन्निकर्षात् प्रवर्तते| सुखदुःखमनारम्भादात्मस्थे मनसि स्थिरे||१३८||
निवर्तते तदुभयं वशित्वं चोपजायते| सशरीरस्य योगज्ञास्तं योगमृषयो विदुः||१३९||
आवेशश्चेतसो ज्ञानमर्थानां छन्दतः क्रिया| दृष्टिः श्रोत्रं स्मृतिः कान्तिरिष्टतश्चाप्यदर्शनम्||१४०||
इत्यष्टविधमाख्यातं योगिनां बलमैश्वरम्| शुद्धसत्त्वसमाधानात्तत् सर्वमुपजायते||१४१||
सर्वं कारणवद्दुःखमस्वं चानित्यमेव च| न चात्मकृतकं तद्धि तत्र चोत्पद्यते स्वता||१५२||
यावन्नोत्पद्यते सत्या बुद्धिर्नैतदहं यया| नैतन्ममेति विज्ञाय ज्ञः सर्वमतिवर्तते||१५३||

Muni's Play