Prayers to Prana
| Verse Link | Devanagari |
|---|---|
| Kena 1.2 | श्रोत्रस्य श्रोत्रं मनसो मनो यद् वाचो ह वाचं स उ प्राणस्य प्राणः । चक्षुषश्चक्षुरतिमुच्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥ २ ॥ |
| Katha 2.1.7 | या प्राणेन संभवत्यदितिर्देवतामयी । गुहां प्रविश्य तिष्ठन्तीं या भूतेभिर्व्यजायत । एतद्वै तत् ॥ ७ ॥ |
| Katha 2.3.2 | यदिदं किंच जगत्सर्वं प्राण एजति निःसृतम् । महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति ॥ २ ॥ |
| Mundaka 3.1.4 | प्राणो ह्येष यः सर्वभूतैर्विभाति विजानन्विद्वान्भवते नातिवादी । आत्मक्रीड आत्मरतिः क्रियावानेष ब्रह्मविदां वरिष्ठः ॥ ४ ॥ |
| Prashna 1.8 | विश्वरूपं हरिणं जातवेदसं परायणं ज्योतिरेकं तपन्तम् । सहस्ररश्मिः शतधा वर्तमानः प्राणः प्रजानामुदयत्येष सूर्यः ॥ ८ ॥ |
| Prashna 2.9 | इन्द्रस्त्वं प्राण तेजसा रुद्रोऽसि परिरक्शिता । त्वमन्तरिक्शे चरसि सूर्यस्त्वं ज्योतिषां पतिः ॥ ९ ॥ |
| Prashna 2.13 | प्राणस्येदं वशे सर्वं त्रिदिवे यत्प्रतिष्ठितम् । मातेव पुत्रान्रक्शस्व श्रीश्च प्रज्ञां च विधेहि न इति ॥ १३ ॥ |

Muni's Play