Pancatathagata-mudravivarana

Introduction

Sanskrit

पञ्चतथागतमुद्रविवरणम् । नमः सर्व्वविदे । (pañcatathāgatamudravivaraṇam | namaḥ sarvvavide |)


The Identity of Skandhas and Tathagatas

Sanskrit

प्रात्यत्यजातः परिकल्पशून्यः शून्यस्वभावेन न वस्तुसन्तः । नोच्छिन्नदिनाश् चिचिदेकरूपा रूपादयः पञ्चजिता जयन्ति ॥ (prātyatyajātaḥ parikalpaśūnyaḥ śūnyasvabhāvena na vastusantaḥ | nocchinnadināś cicidekarūpā rūpādayaḥ pañcajitā jayanti ||)

Sanskrit

पञ्चस्कन्धाः पञ्चतथागताः । तत्र चत्वारो किं ज्ञानमात्रताप्रतिपादनाय अक्षोभ्येण मुद्यन्ते । एतेन बाह्याकाराभावे ग्राहकशून्यतया ग्राह्यग्राहकहितं परमार्थसत्संविन्मात्रं विज्ञानम् एव तिष्ठते । इदम् एव शरदमलामध्याह्नगगनायमानं निराकारवादिनां मौलं ज्ञानं साध्यं । (pañcaskandhāḥ pañcatathāgatāḥ | tatra catvāro kiṃ jñānamātratāpratipādanāya akṣobhyena mudyante | etena bāhyākārābhāve grāhakaśūnyatayā grāhyagrāhakarahitaṃ paramārthasatsaṃvinmātraṃ vijñānam eva tiṣṭhate | idam eva śaradāmalāmadhyāhnagaganāyamānaṃ nirākāravādināṃ maulaṃ jñānaṃ sādhyaṃ |)


On the Nature of Consciousness and Form

Sanskrit

तथा चोक्तम्— शून्यं कल्पितरूपेण निराभासम् अनाकृति । सत्संवित्सारमात्रं वै पृष्ठाकारचयाकुलम् ॥ (tathā coktam— śūnyaṃ kalpitarūpeṇa nirābhāsam anākṛti | satsaṃvitsāramātraṃ vai pṛṣṭhākāracayākulam ||)

Sanskrit

तदुक्तम्—रूपकायौ तु पश्चिम इति । तथा च— निष्प्रपञ्चो निराभासो धर्मकायो महामुनेः । रूपकायौ तदुद्भूतौ पृष्ठे मायैव तिष्ठते ॥ (taduktam—rūpakāyau tu paścima iti | tathā ca— niṣprapañco nirābhāso dharmakāयो mahāmuneḥ | rūpakāyau tadudbhūtau pṛṣṭhe māyaiva tiṣṭhate ||)


Akshobhya and Vajrasattva

Sanskrit

इति ननु अक्षोभ्यमुद्रयैव सिद्धत्वात् किमर्थं तर्हि अक्षोभ्यो वज्रसत्त्वेन मुद्यते इत्यागमः? यावत्कल्पिताकारशून्यताप्रतिपादनाय इति चेत्, तन्न, पूर्वमुद्रयैव सिद्धत्वात् । तस्मात् यथा अक्षोभ्यमुद्रयैव ज्ञानं मौलं पृष्ठं अन्यत्, तथा वज्रसत्त्वमुद्रया विज्ञानम् अपि पृष्ठं मौलं वज्रम् इति स्यात् । (iti nanu akṣobhyemudrayaiva siddhatvāt kimarthaṃ tarhi akṣobhyo vajrasattvena mudyate ity āgamaḥ? yāvatkalpitākāraśūnyatāpratipādanāya iti cet, tanna, pūrvamudrayaiva siddhatvāt | tasmāt yathā akṣobhyemudrayaiva jñānaṃ maulaṃ pṛṣṭham anyat, tathā vajrasattvamudrayā vijñānam api pṛṣṭhaṃ maulaṃ vajram iti syāt |)

Sanskrit

उक्तं च वज्रशेखरे— दृढं सारम् असौशीर्यम् अच्छेद्यभेद्यलक्षणम् । अदाहि अविनाशि च शून्यता वज्रम् उच्यते ॥ (uktaṃ ca vajraśekhare— dṛḍhaṃ sāram asauśīryam acchedyābhedyalakṣaṇam | adāhi avināśi ca śūnyatā vajram ucyate ||)


The Unity of Emptiness and Knowledge

Sanskrit

याद् आयावच्च संग्रहे इति । पृष्ठे रूपादिकं चेत्, मौलज्ञानाद् अक्षोभ्यमुद्रया तद्दज्ज-सत्त्वम् पृष्ठे ‘हं तन्न—न्न किम् । सत्त्वम् इति पृष्ठ इति चेत् तर्हि करुणाभावात् उच्छेदवादप्रसङ्गः । इष्यते च— वज्रेण शून्यता प्रोक्ता सत्त्वेन ज्ञानम् आच्यते । तादात्म्यम् अनयोः सिद्धं वज्रसत्त्वस्वभावतः ॥ (yād āyāvacca saṃgrahe iti | pṛṣṭhe rūpādikaṃ cet, maulajñānād akṣobhyamudrayā taddajja-sattvam pṛṣṭhe ‘haṃ tanna—nna kim | sattvam iti pṛṣṭha iti cet tarhi karuṇābhāvāt ucchedavādaprasaṅgaḥ | iṣyate ca— vajreṇa śūnyatā proktā sattvena jñānam ācyate | tādātmyam anayoḥ siddhaṃ vajrasattvasvabhāvataḥ ||)

Sanskrit

शून्यतापयोर् भेदः प्रदीपालोकयोर् इव । शून्यता-अवैत्री प्रदीपालोकयोर् इव ॥ भवेभ्यः शून्यता नान्या न च भावो ‘स्ति तां विना । अविनाभावम् इयतः कृकानित्योर इव ॥ (śūnyatāpayor bhedaḥ pradīpālokayor iva | śūnyatā-avaitrī pradīpālokayor iva || bhavebhyaḥ śūnyatā nānyā na ca bhāvo ‘sti tāं विना | avinābhāvam iyataḥ kṛkānityor iva ||)


Transcendental Reality (Tattva)

Sanskrit

कथ्यमाने यथात्वे उच्छेदो नैव संवृतेः । संवृतिव्यतिरेकेण न तत्त्वम् उपलव्यते ॥ (kathyamāne yathātve ucchedo naiva saṃvṛतेः | saṃvṛtivyatireकेण na tattvam upalabyhate ||)

Sanskrit

इत्यादि विस्तरः । एवम् अक्षोभ्यवज्रसत्त्वयोर् ऐक्यम् इति चेत् तर्हि विज्ञानरूपाद्य्-अपरित्यागे चित्राद्वैतवादो ज्यायान् । तदुक्तम्— सच्चित्-चिन्मात्र-मशेषकल्पा-शून्यं हि साकारमतं मतं मे । गच्छत्तृणस्पर्शसमानम् अन्ये तन्मध्यमार्थं प्रवदन्ति सन्तः ॥ (ityādi vistaraḥ | evam akṣobhyavajrasattvayor aikyam iti cet tarhi vijñānarūpādy-aparityāge citradvaitavādo jyāyān | taduktam— sac-cit-cinmātra-maśeṣakalpā-शून्यं hi साकारमतं मतं मे | gacchat-tṛṇa-sparśa-samānam anye tan-madhyamārthaṃ pravadanti सन्तः ||)


Contrast with Citradvaitavada

Sanskrit

चित्राद्वैतवादिनां तु परमार्थसाद् इति ज्ञानम् अपेशलम् । ग्राह्यग्राहकशून्यचित्-अद्वैताक्षोभ्यरूपज्ञानस्य वज्रसत्त्वमुद्रया वस्तुसत्तानिरस्तत्वात् । तदुक्तम्— रूपादिकल्पाशून्यं चेत् ज्ञानम् अक्षोभ्यमुद्रया । वस्तुसत्त्वमुद्रतो वस्तुसत्ता निरस्यते ॥ न च विज्ञप्तिमात्रस्य कल्पिताकारशून्यता । क्रियते वज्रसत्त्वेन पूर्वं तस्यानवस्थितेः ॥ (citradvaitavādināṃ tu paramārthasād iti jñānam apeśalam | grāhyagrāhakaśūnyacic-advaitākṣobhyarūpajñānasya vajrasattvamudrayā vastusattānirastatvāt | taduktam— rūpādikalpāśūnyaṃ cet jñānam akṣobhyamudrayā | vastusattvamudrato vastusattā nirasyate || न च विज्ञप्तिमात्रस्य कल्पिताकारशून्यता | क्रियते वज्रसत्त्वेन पूर्वं तस्यानवस्थितेः ||)


The Madhyamaka Conclusion

Sanskrit

पञ्चतथागतमुद्रविवरणम् । तदेवं परमार्थसाद् इति शल्यापगमे सर्व्वाचप्रतिष्ठानरूपानभोगयुगनङ्घद्दयवादिसंवेदनसिद्धमध्यमकसिद्धान्तः प्रेयान् । अयं च सद्गुरुपादप्रसादाद् अवगम्यते । न च संवेदनसिद्धौ मायोपमादयवादप्रसङ्गेन सर्व्वाचप्रतिष्ठानम् इति चेत्— (pañcatathāgatamudravivaraṇam | tadevaṃ paramārthasād iti śalyāpagame sarvvācapratiष्ठानरूपानभोगयुगनङ्घद्दयवादिसंवेदनसिद्धमध्यमकसिद्धान्तः preyān | ayaṃ ca sadgurupādप्रसादाद् avagamyate | ना च संवेदनसिद्धौ मायोपमादयवादप्रसङ्गेन सर्व्वाचप्रतिष्ठानम् इति चेत्—)


Dependent Origination and Unborn Nature

Sanskrit

यत् प्रतीत्यसमुत्पन्नम् अनुत्पन्नं तत् स्वभावतः । स्वभावेन यन्नोत्पन्नम् उत्पन्नं नाम तत् कथम् ॥ (yat pratītyasamutpannam anutpannaṃ tat svabhāvataḥ | स्वभावेन yannotpannam utpannaṃ नाम तत् कथम ||)

Sanskrit

इति । संवेदनं च प्रतीत्यसमुत्पन्नम् तस्मात् संवेदनम् एवाप्रतिष्ठितम् अजातपदम् । तथा च— संवेदनम् अजातं वै वस्तुसत्तापि तादृशी । वज्रसत्त्वस्वरूपं तु जगत् एव जगौ मुनिः ॥ (iti | saṃvedanam ca pratītyasamutpannam tasmāt saṃvedanam evāpratiṣṭhitam ajātapadam | tathā ca— saṃvedanam ajātaṃ vai वस्तुसत्तापि तादृशी | वज्रसत्त्वस्वरूपं तु जगत् एव जगौ मुनिः ||)


The Inconceivable Realm (Acintyadhātu)

Sanskrit

किञ्च मा सृष्टस् तथागतेन पृष्टः: कतमो ‘साव् अचिन्त्यधातुः? मा श्रौर् आह: यो धातुर् निश्चितो न चित्तागमानुयो न चित्तप्रमेयो न चित्तचेतनया प्रतिवेदितव्यः, असाव् उच्यते अचिन्त्यधातुः । अथ च पुनर् भगवान् चित्तम् एवा अचिन्त्यधातुः । तत् कस्य हेतोः? न ह्य अचित्ते चित्ते चित्तं संविद्यते । निश्चिन्तं हि चित्तं चित्तस्य यथार्थावबोधत् । अथ च सर्वकारो भगवतो ‘चिन्त्यधातुः । (kiñca mā sृष्टस् tathāगतन pṛṣṭaḥ: katamo ‘sāv acintyadhātuḥ? mā śrāur āha: yo dhātur निश्चितो na cittāgamānuyo na cittaprameयो na cittacetanayā प्रतिवेदितव्यः, asāv ucyate acintyadhātuḥ | atha ca punar bhagavān cittam evā acintyadhātuḥ | tat kasya hetoḥ? न ह्य अचित्ते चित्ते चित्तं संविद्यते | niścittaṃ hi cittaṃ cittasya yathārthāvabodhat | atha ca sarvākāro bhagavato ‘cintyadhātuḥ |)


Obeisance to the Unsupported

Sanskrit

अन्यत्राप्य् उक्तम्— अविकल्पितसंकल्पा अप्रतिष्ठितमानसा । अस्मृत्यामनसिकारा निरालम्बा नमो ‘स्तु ते ॥ (anyatrāpy uktam— avikalpitasankalpā apratiṣṭhitamānasā | asmrtyāमनसिकारा nirālambā नमो ‘स्तु ते ||)


Quotes from Scriptures

Sanskrit

चतुःप्रदीपे— यः प्रत्ययैर् जायति स जातो न तस्य उत्पादः स्वभावतः ‘स्ति । यः प्रत्ययाधीनः स शून्य उक्तः यः शून्यतां जानाति सो ‘प्रमत्तः ॥ (catuḥप्रदीपे— yaḥ pratyayair jāyati sa jāto na tasya utpādaḥ svabhāvato ‘sti | यः प्रत्ययाधीनः sa śūnya uktaḥ yaḥ śūnyatāṃ jānāti सो ‘प्रमत्तः ||)

Sanskrit

आर्य्य-लङ्कावतारे— भ्रान्तिं विधूय सर्व्वां हि निमित्तं जायते याहि । सैव तस्य भवेद् भ्रान्तिर् अशुद्धतिमिरं यथा ॥ (āryya-लङ्कावतारे— bhrāntiṃ विधूय sarvvāṃ hi nimittaṃ jāyate याहि | saiva tasya bhaved bhrāntir aśuddhatimiraṃ yathā ||)

Sanskrit

तथा च—मा भूत् संवृतिप्रतिष्ठानम् अत एव मुनिर् भयात् । भिनत्ति देशनाधर्मम् उक्ता शून्यतात्मना ॥ (tathā ca—mā bhūt saṃvṛtipratiṣṭhānam ata eva munir bhayāt | bhinatti deśanādharmam uktā śून्यतात्मना ||)


Hevajra and Other Sources

Sanskrit

उक्तम् च हेवज्रे— स्वभावश् चैवाद्य-अनुत्पन्नं न सत्यं न मृषेति च । (uktam ca hevajre— svabhāvaश चैवाद्य-anutpannaṃ na satyaṃ na mṛṣेति च |)

Sanskrit

किञ्च— सर्व्वैः समानः प्रतिभज्यमानः शून्यो’क्तिकाङ्क्षा-समाधिया कृतान्तः । बाह्यस्य विभागकाच ना यादिका यदि शून्यताुक्तिः ॥ (kiñca— sarvvaiḥ samānaḥ pratibhājyamānaḥ śūnyo’ktिकाङ्क्षा-समाधिया कृतान्तः | बाह्यस्य विभागकाच na yādikā yadi śūnyatoktiḥ ||)

Sanskrit

आह च, उच्छेदानन्त्यम् अपनयन्— तथतां ये तु पश्यन्ति मध्यमार्थानुसारतः । ते वै तत्त्वविदो धन्याः प्रत्यक्षं यदि संविदा ॥ (āha ca, ucchedānantyam apanayan— tathatāṃ ye tu paśyanti madhyamārthānusārataḥ | ते वै तत्त्वविदो धन्याः प्रत्यक्षं यदि संविदा ||)


Final Realization

Sanskrit

तदुक्तम् डाकिनी-वज्रपञ्जरे— शून्यता करुणाभिन्नां या च चित्तं प्रभाव्यते । सो हि बुद्धस्य धर्मस्य सङ्घस्यापि हि देशना ॥ (taduktam dākinī-vajrapañjरे— शून्यता करुणाभिन्नाṃ yā ca cittaṃ प्रभाव्यते | so hi buddhasya dharmasya saṅghasyāpi hi deशना ||)

Sanskrit

तस्मात् पञ्चकारणं प्रतीत्यसमुत्पन्नानां पञ्चतथागतस्वभावत्वात्, स्वभावस्य ca शून्यताकरुणाभिन्नत्वात्, शून्यताकरुणाभिन्नम् जगद् इति स्थितम् । एतद् एव सगुरोर् उपदेशतो ध्यानम् अविच्छिन्नम्— नादस्रोतप्रवाहेण दीपज्योतिः प्रबन्धवत् । मन्त्रतत्त्वानुसारतः । (tasmāt pañcakāraṇaṃ pratītyasamutpannānāṃ pañcatathāgatasvabhāvatvāt, स्वभावस्य ca śūnyatākaruṇābhinnatvāt, śūnyatākaruṇābhinnam jagad iti sthitam | etad eva saguror upadeśato dhyānam aviccिहुन्नम्— nādasrotapravāheṇa dīpajyotiḥ prabandhavat | mantratattvānusārataḥ |)


Conclusion

Sanskrit

तथा चाहुर् नागार्जुनपादाः— कूटागारम् इदं न यत् त्रिभुवनं न प्राणिनो ‘मी जनाः । चक्रेशो ‘स्मिन् न मानुषो न विषया नक्षाणि न ह्यादयः । रूपाद्या न च धर्मतत्त्मकतया ते मण्डलेया इमे । विश्वं मण्डलचक्रम् अकालयताश्चतः किमु भ्राम्यसि ॥ (tathā cāhur nāgārjunapādāḥ— kūṭāgāram idaṃ na yat tribhuvanaṃ na prāṇino ‘mी janāḥ | cakreśo ‘smin na mānuṣo na viषाया nākṣāṇi na hyādayaḥ | rūpādyā na ca dharmatatmakatayā te maṇḍaleyā ime | viśvaṃ maṇḍalacakram akalayatāscataḥ kimu bhrāmyasi ||)

Sanskrit

प्रत्यत्यसम्भव-देव गन्धर्व्वपुरवत् स्फुटम् । ना स्वभावस्थितं विश्वं नाकाशाम्भोजसन्निभम् ॥ (प्रत्यात्यसम्भव-deva gandharvvapuravat sphuṭam | na svabhavasthitam visvam nākāśāmbhojasannibham ||)

Sanskrit

उक्तम् च देव इति । मा धमस्तु निव्वानं मोहात् संसाररूपिणः । पञ्चतथागतमुद्रविवरणं समाप्तम् इति ॥ (uktam ca deva iti | mā dhamastu निव्वानं mohāt saṃsārarūpiṇaḥ | pañcatathāgatamudravivaraṇaṃ समाप्तम् इति ||)