उपादानं कतमत्। स्कन्धेषु च्छन्दो रागश्च। अनागतेऽभिलाषाद् वर्त्तमानेऽधावसानाच्च च्छन्दो रागश्चोपादानमित्युच्यते।
अनुभवलक्षणा वेदना।
रूपस्कन्धव्यवस्थानं कतमत्। यत्किंचिद्रूपं सर्वं तच्चत्वारि महाभूतानि चत्वारि च महाभूतान्युपादाय॥
वेदनास्कन्धव्यवस्थानं कतमत्। षड्वेदनाकायाः। चक्षुःसंस्पर्शजा वेदना श्रोत्रघ्राणजिव्हाकायमनः संस्पर्शजा वेदना॥ कायिकी वेदना कतमा। पंचविज्ञानसंप्रयुक्ता वेदना॥ चैतसिकी वेदना कतमा। मनोविज्ञानसंप्रयुक्ता वेदना।
संज्ञास्कन्धव्यवस्थानं कतमत्। षट् संज्ञाकायाः।
संस्कारस्कन्धव्यवस्थानं कतमत्। षट् चेतनाकायाः। इतीयं चेतना वेदनां संज्ञाच्च स्थापयित्वा तदन्ये चैतसिका धर्माश्चित्तविप्रयुक्ताश्च संस्काराः संस्कारस्कन्ध इत्युच्यते॥
चेतना कुशलाकुशलाव्याकृतेषु चित्तप्रेरणकर्मिका॥ मनस्कारः आलम्बनचित्त धारणकर्मकः॥ च्छन्दः वीर्यादान सन्निश्रयदानकर्मकः॥ अधिमोक्षः असंहार्यताकर्मकः॥ स्मृति असंप्रमोषोऽविक्षेपकर्मिका॥ श्रद्धा च्छन्दसक्षिश्रयदानकर्मिका। ह्रीः कतमा। स्वयमवद्येन लज्जना। दुश्चरितसंयमसन्निश्रयदानकर्मिका॥ वीर्यं कतमत्। कुशले चेतसोऽभ्युत्साहः सन्नाहे वा प्रयोगे वा अलीनत्वे वा अव्यावृत्तौ वा असन्तुष्टौ वा। कुशलपक्षपरिपूरणपरिनिष्पादनकर्मकम्॥ अश्रब्धिः कतमा। कायचित्तदौष्ठुल्यानां प्रतिप्रश्रब्धेः काय चित्तकर्मण्यता। सर्वावरणनिष्कर्षणकर्मिका॥
अम्रमादः कतमः। सवीर्यकानलोभाद्वेषामोहन्निश्रित्य या कुशलानां धर्माणाम्भावना सास्रवेभ्यश्च धर्मेभ्यश्चित्तारक्षा। स च लौकिकलोकोत्तरसम्पत्ति परिपूरणपरिनिष्पादनकर्मकः॥ उपेक्षा कतमा। सवीर्यकानलोभाद्वेषामोहान्निश्रित्य या संक्लिष्टविहारवैरोधिकी चित्तसमता चित्तप्रशठता चित्तस्यानाभोगावस्थितता। संक्लेशानवकाशसन्निश्रयदानकर्मिका॥
स्त्यानं कतमत्। मोहांशिका चित्ताकर्मण्यता।

Muni's Play